वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: मृगः छन्द: गायत्री स्वर: षड्जः काण्ड:

न꣡मः꣢ स꣣खि꣡भ्यः꣢ पूर्व꣣स꣢द्भ्यो꣣ न꣡मः꣢ साकन्नि꣣षे꣡भ्यः꣢ । यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीम् ॥१८२८

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः । युञ्जे वाचꣳ शतपदीम् ॥१८२८

मन्त्र उच्चारण
पद पाठ

न꣡मः꣢꣯ । स꣣खि꣡भ्यः꣢ । स꣣ । खि꣡भ्यः꣢꣯ । पू꣣र्वस꣡द्भ्यः꣢ । पू꣣र्व । स꣡द्भ्यः꣢꣯ । न꣡मः꣢꣯ । सा꣣कन्निषे꣡भ्यः꣢ । सा꣣कम् । निषे꣡भ्यः꣢ । यु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣡त꣣प꣢दीम् । श꣣त꣢ । प꣣दीम् ॥१८२८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1828 | (कौथोम) 9 » 2 » 7 » 1 | (रानायाणीय) 20 » 6 » 6 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में नमस्कार किया गया है।

पदार्थान्वयभाषाः -

(पूर्वसद्भ्यः) जो पहले हो चुके हैं, उन (सखिभ्यः) सखाओं को (नमः) नमस्कार हो, (साकंनिषेभ्यः) साथ रहनेवाले सखाओं को (नमः) नमस्कार हो। अग्नि के समान तेजस्वी मैं (शतपदीम्) अनेक पादोंवाली (वाचम्) वेदवाणी को (युञ्जे) प्रयोग में लाता हूँ ॥१॥

भावार्थभाषाः -

जो हमसे पहले उत्पन्न हुए वृद्धजन हैं और जो सहयोगी मित्र हैं, उन सबको यथायोग्य सत्कार देना चाहिए। धार्मिक कार्यों में तथा परमात्मा की स्तुति में सदा वेदमन्त्रों का प्रयोग करना उचित है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ नमस्कारमाह।

पदार्थान्वयभाषाः -

(पूर्वसद्भ्यः) पूर्वं सीदन्ति स्म ये ते पूर्वसदः तेभ्यः (सखिभ्यः) समानख्यानेभ्यः सुहृद्भ्यः (नमः) नमस्कारोऽस्तु, (साकंनिषेभ्यः) साकं सह निषः स्थितिः येषां तेभ्यः सहवर्तिभ्यः सखिभ्यः सुहृद्भ्यः (नमः) नमोऽस्तु। अग्निः अग्निवत् तेजस्वी अहम् (शतपदीम्)१ अनेकपादयुक्तां (वाचम्) वेदवाचम्। [ऋक् शतपदी ष० ब्रा० १।४।] (युञ्जे) प्रयुञ्जे ॥१॥

भावार्थभाषाः -

येऽस्मत्पूर्वजा वृद्धाः सन्ति ये च सहयोगिनः सखायः सन्ति तेभ्यः सर्वेभ्योऽपि यथायोग्यं सत्कारः प्रदेयः। धार्मिकेषु कृत्येषु परमात्मस्तुतौ च सदा वेदमन्त्राः प्रयोक्तव्याः ॥१॥